नवनीता प्रिया कृष्ण अष्टकम

नवनीता प्रिया कृष्ण अष्टकम Navaneeta Priya Krishna Ashtakam

अलकावृतलसदलिके विरचितकस्तूरिकातिलके ।
चपलयशोदाबाले शोभितभाले मतिर्मेऽस्तु ॥

मुखरितनूपुरचरणे कटिबद्धक्षुद्रघण्टिकावरणे ।
द्वीपिकरजकृतभूषणभूषितहृदये मतिर्मेऽस्तु ॥

करधृतनवनवनीते हितकृतजननीविभीषिकाभिते ।
रतिमुद्वहताच्चेतो गोपीभिर्वश्यतां नीते ॥

बालदशामतिमुग्धे चोरितदुग्धे व्रजाङ्गनाभवनात् ।
तदुपालम्भवचोभयविभ्रमनयने मतिर्मेऽस्तु ॥

व्रजकर्दमलिप्ताङ्गे स्वरूपसुषमाजितानङ्गे ।
कृतनन्दाङ्गणरिङ्गण विविधविहारे मतिर्मेऽस्तु ॥

करवरधृतलघुलकुटे विचित्रमायूरचन्द्रिकामुकुटे ।
नासागतमुक्तामणिजटितविभूषे मतिर्मेऽस्तु ॥

अभिनन्दनकृतनृत्ये विरचितनिजगोपिकाकृत्ये ।
आनन्दितनिजभृत्ये प्रहसनमुदिते मतिर्मेऽस्तु ॥

कामादपि कमनीये नमनीये ब्रह्मरुद्राद्यैः ।
निःसाधवभजनीये भावतनौ मे मतिर्भूयात् ॥

Share This Article
कोई टिप्पणी नहीं

प्रातिक्रिया दे

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *

error: Content is protected !!
Exit mobile version